Tuesday, June 23, 2020

८५ . चल चल बन्धो संघस्थानं

८५ . चल चल बन्धो संघस्थानं 

चल चल बन्धो संघस्थानं 
काङ्क्षसि यदि निज राष्ट्रोत्थानं ।।धृ०।।

सायं प्रातः संध्याकाले 
प्रतिदिनमथवा रजनीकाले 
व्रतमिति कुरुनित राष्ट्रचिन्तनं ।।१।।

मन्दिर सविधे क्वचित् प्राङ्गणे 
नदीतटे वा परमपावने 
यत्र हि नियतम् ध्वजारोपणं ।।२।।

शिशवो बालाः दृढः किशोरा 
तरुणाः प्रौढः केचित् स्थविराः 
यत्र मिलन्ति प्रियः प्रतिदिनम् ।।३।।

योग व्यायामो बलदायी 
सूर्यनमस्कारः शुभदायि 
यत्र कुर्वते ध्येयस्मरणं ।।४।।

मातृभूरियम् सदावत्सला 
पुण्यभूमिरीति महामङ्गला 
तां प्रति कर्तुम् जीवनदानम् ।।५।।

No comments:

Post a Comment